________________
प्रतिमा शतकम्.
॥२२५॥
यद्भगवतापि तीर्थकरेण प्रतिषिद्धं तदेषोऽत्र द्रव्यस्तवोऽनुज्ञातस्तेन तीर्थकरेण उचितेभ्यः प्राणिभ्यो गम्यते चेष्टासमानशीलने मौनेन व्यञ्जकेन १०४ ॥ “ जय भगवं अणुजाणइ जोगं मुक्खविगुणं कयाचिदवि । णयतयणुगुणोवि तथ, ण बहुमओ होइ अण्णे सिं " ।। १०५ ॥ न च भगवाननुजानाति योगं व्यापारं मोक्षविगुणं कदाचिदपि मोहाभावान्न च तदनुगुगोऽप्यसौ योगो न बहुमतो भवत्यन्यषां किन्तु बहुमत एवेत्यर्थतः सोऽपि द्रव्यस्तवानुमति क्रोडीकृतो भवतीति १०५ ।। भाव एव भगवतोऽनुमोद्यो न द्रव्यमित्याशङ्कां सत्कार्यनयेन द्रव्ये भावसत्ताभ्युपयमेन निरस्यन्नाह - " जो चैव भावलेसो सोचेत्र उ भगवओ बहुमओ । ण तओ विशेयरेणं ति अत्यओ सोवि एमेव " १०६ ।। य एव भावलेशः स एव भगवतो बहुमतोऽपुनईधादि चतुर्दशगुणस्थानान्तभावतः तदाज्ञा विषयत्वात्तत्रेष्टसाधनताव्यञ्ज कव्याप/रस्यैव तदनुमतित्वादीनभावत्वेनाननुमोद्यत्वेऽतिप्रसङ्गादवदाम चोपदेशरहस्ये - " जइहीणं दव्वत्ययं अणुमणेज्जा ण संजमोति मई । ता कस्सविजोगं तित्थयरो नाणुमणिज्जत्ति " न तको भावलेशो विनेतरेण द्रव्येनेत्यर्थतः सोऽपि द्रव्यस्तवोऽप्येवमेवानुमत एव १०६ ॥ एतदेव स्पष्टयति" कज्जं इच्छंतेणं अनंतरं कारणंपि इट्ठति । जह आहारजतिति इच्छंत्रेणेह आहारो " ।। १०७ । कार्यमिच्छतानन्तरमक्षेपफलकारिकारणमपीष्टमेव भवति, कथमित्याह - यथाहारजां तृप्तिमिच्छतेह लोके आहारो दृ ( इष्टः इति गाथार्थः । अपापुद्रव्यवधानेनापि भावस्तवे द्रव्यस्तवस्य हेतुत्वात्कथमनन्तरं कारणत्वमिति चेदृजुसूत्रादिनयेन, कथञ्चित्तत्रये तत्स्थलीयानन्तरभा - वस्यैव पुरस्काराद्, व्यवहारनयेन तु (द्वारेण) द्वारिणोऽन्यथा सिद्ध्यभावादनन्तर कारणत्वमविरुद्धमेवेति व्युत्पादितमध्यात्मपरीक्षादौ १०७ ॥ भवनादावपि विधिमाह - " जिण भवन कारणाइवि भरहाईण न निवारियं तेण । जह तेर्सि चिय कामा सल्ल
wwww
स्वोपक दृचिः श्लो. ६७
॥२२५॥