________________
प्रतिमा
शतकम्. ॥२०५॥
पटलकानां, मुत्कलानि पुष्पाणि, प्रथितानि माल्यानि, अष्टशतं चूर्णपटलकानां, एवं गन्धवस्त्राभरणसिद्धार्थ लोमहस्तपटलकानामपि प्रत्येकं प्रत्येक अष्टशतं द्रष्टव्यं, अष्टशतं सिंहासनानां, अष्टशतं छत्राणां, अष्टशतं चामराणां, अष्टशतं तैलसमुद्गकानां, अष्टशतं कोष्ठसमुद्गकानां, अष्टशतं चोयकसमुद्गकानां, अष्टशतं तगरसमुद्गकानां, अष्टशतमेलासमुद्गकानां, अष्टशतं हरितालसमुद्गकानां, अष्टशतं हिंगुल समुद्गकानां, अष्टशतं मनःशिलसमुद्गकानां, अष्टशतमञ्जनसमुद्ग कानां, सर्वाण्येतानि तैलादीनि-' परमसुगन्धोपेतानि द्रष्टव्यानि अष्टशतं ध्वजानामित्यादि । एवंविधराजचिन्हयुक्ता यथोचितव्यापारनियुक्तनागादिप्रतिमासेव्यमानाश्रङ्गेर्यादिपूजोपकरणसमन्विताश्च प्रतिमाः शाश्वतभावेन स्वत एवात्मनो जगत्पूज्यत्वं ख्यापयन्ति, अन्यथा तथाविषचिन्हाद्युपेतत्वासंभवात् एवंविधव्यतिकरमाकर्ण्यापि ये जिनप्रतिमामाराध्यत्वे नाङ्गीकुर्वते ते क्लिष्टकर्मोदयिनो मन्तव्याः । नचैवं परिवारोपेताः शाश्वतप्रतिमा एव भवन्ति नान्या इति वाच्यं, अष्टापदाद्रौ भरतकारितानां ऋषभादिवर्द्धमानान्तानां चतुर्विंशतेरपि जिनप्रतिमानां तथा परिवारोपेतत्वात् जीवाभिगमोक्तपरिवारयुक्ता इति वचनात्, किश्व देवलोकादावपि 'जेणे व देवच्छंद ए इत्यागमवचनाज्जिनप्रतिमा एव शाश्वतभावेन देवशद्ववाच्याः सन्ति । न तथान्यतीर्थिकाभिमतशब्दवाच्याः, तेषां देवानामनैयत्यात् देवाधिदेवप्रतिमाः प्रभुत्वं स्वतः प्रतिष्ठोपगताः श्रयन्ति, संक्रामति स्थाप्यगतो विशेषो न स्थापनायाः, किमु निर्विपक्षः "अथ स्तत्रपरिज्ञया प्रथम देशनादेश्यया गुरोर्गरिमसारया स्तवविधिः परिस्तूयते । इयं खलु समुद्धृता सरमदृष्टिवादादितः श्रुतं निरवमुत्तमं समयवेदिभिर्भण्यते || अथ स्तवपरिज्ञात्यन्तोपयोगिनीति, यथा पञ्चवस्तु के दृष्टा तथा लिख्यते, तथाहि'एयमिहमुत्तममु आईसाई थवपरिणाई । वणिज्जइ जीइथओ दुविहाविगुणाभावेण " ॥ १ ॥ एतदिहोत्तमश्रुतं उत्तमार्था
66
स्वोपज्ञ चि:
श्लो. ६७
||॥२०५॥