________________
॥४५॥
स्वोपड
wwwwwwwwww
को.१५
मध्यस्थास्तु पदे पदे धृतधियः संबन्ध्य सर्व बुधाः शुद्धाशुद्धविवेकतः स्वसमयं निःशल्यमातन्वते प्रतिमा । शतकम् - ॥१३०॥
व्याख्या-'यत्कर्म 'इति-यत्कर्म स्वरूपतः शुद्धमपि अपरदोषेण मिश्रिततया शास्त्रे विगीतं निषिद्धं भवेत , तत् स्वाभीष्टार्थलवेन स्वाभिमतार्थलेशप्राप्त्या शुद्धमपि दुष्टाशया लुम्पन्ति, छिद्रान्वेषिणामीदृशच्छलस्य सुलभत्वात् । यथा, खेदोदेगादिदोषमिश्रितमावश्यकादि निषिद्धमिति दुष्पालवादावश्यकमेवैदयुगीनानामकर्तव्यमित्याध्यात्मिकादयो वदन्ति-विधिभक्तिविकलो द्रव्यस्तवो निष्फलः, तदाह-"जं पुण एयविउत्तं, एगंते व भावमुन्नति । तं विसयंमिवि ण तओ, भावत्थडओ णेयं"॥ यदनुष्ठानं एतदौचित्यं, भावो बहुमानः, विषयेऽपि वीतरागेऽपि विधीयमानं, तको द्रव्यस्तवः, तथा प्रकृतेऽपि मठमिश्रितदेवकुलादिकं नाचार्येणानुमतं, इत्यादिकं पुरस्कृत्य द्रव्यस्तव एव न कार्य इति लुपका वदन्ति । मध्यस्थास्तु गीतार्थाः पदे पदे स्थाने स्थाने धृतधियः संमुखीकृतविमर्शाः सवै ग्रन्थं शनैः शनैः मन्दं मन्दंश्रोतृपज्ञानुसारेण संबन्ध्य शुद्धा| शुद्धयोर्विवेको विनिश्चयस्ततः स्वसमयं स्वसिद्धान्तं निःशल्यं शरयरहितमातन्वते, तात्पर्यविवेचनेन सूत्रं प्रमाणयन्ति, न तु शक्लोद्भावनेन मिथ्यात्वं वर्दयन्तीति भावः ॥ ४५ ॥
एतेन प्रदेशान्तरविरोधोऽपि परिहत्याहतेनाकोविदकल्पितश्चरणभृयात्रानिषेधोद्यतश्रीवजानिदर्शनेन सुमुनेत्रानिषेधो हतः ।