________________
।
वृत्तिः
प्रतिमा पत्यादिभेदेनाईदर्शनं स्यादिति भावः । समापत्तिलक्षणमिदं-" मणेरिवाभिजातस्य, क्षीणवृत्तेरसंशयम् । तात्स्थ्यात्तदञ्जनत्वा
स्वोपन शतकम व समापत्तिः प्रकीर्चिता" इति । आपत्तिस्तीर्थकृनामकर्मबन्धः, संपत्तिस्तद्भावाभिमुख्यमिति योगग्रन्ये प्रसिद्धं ॥३२॥ ॥११०॥ तथा
श्लो.३२ पूजापूजकपूज्यसङ्गतगुणध्यानावधानक्षणे मैत्री सत्वगुणेष्वनेन विधिना भव्यः सुखी स्तादिति । वैरव्याधिविरोधमत्सरमदक्रोधैश्च नोपप्लव स्तत्को नाम गुणो न दोषदलनो द्रव्यस्तवोपक्रमे ॥३३॥
टीका-पूजा' इति-पूजापूजकपूज्यसङ्गतास्त्रयान्वयिनो ये गुणास्तेषां यग्दृश्यदृष्टसमापत्तिसमाधिफलं ध्यानं, ततो यद् अवधानमनुमेक्षा तत्क्षणे तदवसरे अनेन द्रव्यस्तवविधिना भव्यः सर्वोऽपि सुखी स्तादिति । सत्वगुणेषु प्राणिसमूहेषु मैत्री भवति, अत एव 'अल्पबाधया बहुपकारादनुकम्पोपपत्तिः' इति पञ्चलिङ्गीकारः। तथा वैरं च व्याधिश्च विरोधश्च मत्सरश्च मदश्च क्रोधश्च तैः कृत्वोपल्लव उपद्रवो न भवति, तत्तस्मात्कारणात् द्रव्यस्तवोपक्रमे उपक्रम्यमाणे द्रव्यस्तवे दोषदलनो दोपोच्छेदकारी को नाम गुणो न भवति? अपि तु भूयोनेव भवतीति भावः ॥ ३३ ॥
उक्तशेषमाहसत्तन्त्रोक्तदशत्रिकादिकविधौ सूत्रार्थमुद्राकिया योगेषुप्रणिधानतोबतभृतां स्याद् भावयज्ञो ह्ययम्। | भावापद्विनिवारणाद्दहुगुणे ह्मप्यत्र हिंसामति-मूढानां महती शिला खल्लु गले जन्मोदधौ मज्जताम् ३४ ॥११०॥