SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रतिमा शतकम्. ॥ ९३ ॥ ॥ छण्हंपि विराहओ होइ” || १ || तथा - "सब्वो पमत्तजोगो, समणस्स उ होइ आरंभो” त्ति । अतः शुभाशुभौ योगावात्मारंभादिकारणमिति । ‘अविरईं पडुच्च' त्ति, इहायं भावः - यद्यप्यसंयतानां सूक्ष्मैकेंद्रियादीनां नात्मारंभकत्वादिकं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम्, नहि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति । निवृत्तानां तु कथञ्चिदात्माद्यारंभकत्वेऽप्यनारंभकत्वं । यदाह - "जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला, अज्झत्थ विसोहि जुत्तस्स”त्ति । ‘से तेणद्वेणंति' अथ तेन कारणेनेत्यर्थः इति वृत्तौ । अत्र संयतासंयतानां पृथगनुपदेशादसंयतातिदेशस्यान्याय्यत्वे प्रमत्तसंयतातिदेश एव न्याय्यस्तथा च देवार्चादौ शुभयोगसत्वात्कथं तेषामारंभः ? न चारंभानारंभस्थानसत्वात्तेषामुभयसंभवः, कालभेदेन तत्सत्वस्य प्रमत्तसंयतेऽप्युक्तत्वादेकदा तत्सत्वस्य पौषधादावतिप्रसक्तत्वात् न च देशाविरतिसत्वात्तत्प्रत्ययारंfrat शुभयोगप्रत्यया च नेत्यपि वक्तुशक्यं विप्रतिषेधादेकेन्द्रियादौ सर्वविरत्यभावस्यैवारंभिकी प्रयोजकत्वाच्च, किश्व प्रमत्तान्तस्य प्रज्ञापनायामारंभिक्युपदेशान्न्यायसाम्यादुक्त आर्थोतिदेशो युक्त एव, अतएव स्वपरतदुभयभेदेन त्रिधा पारितापनिक्याक्तमायां एवं सति लोचकरणतपोऽनुष्ठानाकरणप्रसङ्गो विपाकहितत्वेन चिकित्साकरणन्यायेनाध्यात्मशोधनेनैवाहितः । नन्वेवमविरतसम्यग्दृष्ट्यादेरपि देवार्चनादिशुभयोगसत्वे आरंभिकी न स्यात्, तथा च यस्याप्रत्याख्यानिकी तस्य नियमा दारंभिकीति नियमो भज्येत । सत्यं, विरत्यभावे शुभयोगादारंभिक्याः प्रशस्ताया अपि क्रियात्वेनाविवक्षणात्, तत्सत्वे च तस्या अक्रियात्वेन विवक्षणादन्यथा योगः शुद्धः पुण्याश्रवस्य, पापस्य तद्विपर्यासः, वाकायमनोगुप्तिर्निराश्रवः संवरस्तुक्त इति वाचकवचनात्साधोरपि शुभयोगे शुभारंभिकीत्येव वक्तुं युक्तत्वात्, अतएव शुभमायावशान्मायाप्रत्यया प्रमत्तसंयतस्याभिहितेति स्वोपज्ञ दृतिः श्लो. ३० १९३ ॥
SR No.600277
Book TitlePratima Shatak Granth
Original Sutra AuthorPratapvijay
Author
PublisherMuktikamal Jain Mohan Mala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy