________________
किया
प्रतिमा
स्वोपज्ञ तिः
शतकम्.
अक्षीणाविरतिज्वरा हि गृहिणो द्रव्यस्तवं सर्वदा सेवन्ते कटुकौषधेन सदृशं नानीदृशाः साधवः । ॥ ९० ॥ इत्युच्चैरधिकारिभेदमविदन् बालो वृथा खिद्यते नैतस्य प्रतिमाद्विषो व्रतशतैर्मुक्तिः परं विद्यते ॥३०॥३ श्लो. ३०
ठीका – 'अक्षीण' इत्यादि - हि निश्चितं, अक्षीणोऽविरतिरेव ज्वरो येषां ते तथा गृहिणः ज्वरापहारिणा कटुकौषधेन सदृशं द्रव्यस्तवं सर्वदा सेवन्ते । अनीदृशाः क्षीणाऽविरतिज्वराः साघवो न सेवन्ते 'नंहि नीरोगवैद्योक्तं औषधं रोगवान् सेवते' इति लोकेऽपि सिद्धं, इति उच्चैरतिशयेनाधिकारिभेदं मलिनारंभितदितराधिकारिविशेषं अविदन् वालोऽज्ञानी वृथा खिद्यते मुघाखेदं कुरुते । एतस्य प्रतिमाद्विषः प्रतिमाशत्रोः परं केवलं मुक्तिर्नविद्यते । प्रवचनार्थे एकत्राप्यश्रद्धानवतो योगशतस्य निष्फलत्वात् । तदुक्तमाचोरा - "वितिर्गिच्छसमावन्नेणं अप्पाणेणं णो लभइ समाहिति ” । अत्र प्रत्यवतिष्ठते, ननु यतिरत्र कस्मान्नाधिकारी ? यतः कर्मलक्षणो व्याधिरेको द्वयोरपि यतिगृहस्थयोः, अतस्तच्चिकित्सापि पूजादिलक्षणा समैव भवति, ततो यथेकस्याधिकारः कथं नापरस्य ? अथ - " स्नानमुद्वर्त्तनाभ्यङ्गनखकेशादिसंस्क्रियाम् । गन्धं माल्यं च धूपं च त्यजन्ति ब्रह्मचारिणः ” इति वचनात् यतेः स्नानपूर्वकत्वाद्देवार्चनस्य तस्मिन्नाधिकारः, नैवंभूतार्थस्यैव तस्य निषेधात् यदि यतिः सावद्यान्निवृत्तस्ततः को दोषो यत्स्नानं कृत्वा देवतार्चनं न करोतीति, यदि हि स्नानपूर्वकदेवतार्चने सावद्ययोगः स्यात्तदासौ गृहस्थस्यापि तुल्य १ नहि नीरोग वैद्योक्तं औषधं रोगवान् न सेवते - इत्यपिकचित् . . २ पंचमाध्ययने पंचमोदेशके.
॥॥॥ ९० ॥