SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ वीरवर्णन औपपातिकम् सू०१० ॥२७॥ निचितम्-अत्यर्थनिविडं घनवद्वा-अयोधनवत् निचितं-सुबद्धं सुष्टु स्नायुबद्धं लखणोन्नतं-प्रशस्तलक्षणं कूटस्य-पर्वतशिखरस्य आकारेण-संस्थानेन निभं-सदृशं यत्तत्तथा, पिण्डिकेव-पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणं यस्य तत्तथा, तदेवंविधं शिरो यस्य स घननिचितादिविशेषणशिरस्कः (४६), 'सामलिषोंडघणनिचिय--च्छोडियमिउविसयपसत्यमुहमलक्खणसुगंधसुंदरभुअमोअगभिंगनेलकजलपहिट्ठभमरगणणिडनिकुरुच. निचियकंचियपयाहिणावत्तमुद्धसिरए' शाल्मली-वृक्षविशेषः तस्या यद्बोण्ड-फलं घननिचितम्-अतीव निबिडं 'छोडिय'ति छोटितं स्फोटितं तद्वत् मृदवः-सुकुमाराश्च-रिशदाश्च-व्यक्ताः प्रशस्ताश्च-शुभाः सूक्ष्माश्च-श्लक्ष्णाः लक्षणाच-लाक्षणिकाः सुगन्धयश्च-सुरभयः सुन्दराश्च-शोभनाः भुजमोचकवद्-त्नविशेष इव भृङ्गवत्-कीटविशेषवदङ्गारविशेषवदा नैलवत्-नीलीविकारवत् अथवा भृङ्गनेलव-कजलव-मपीव प्रहृष्टभ्रमरगणवच्च-निरुजद्विरेफवृन्दमिव स्निग्धः-कृष्णच्छायो निकुरुम्बः-समूहो येषां ते तथा, ते च निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभृताः प्रदक्षिणावर्ताश्च-प्रतीताः मृर्द्धनि-मस्तके शिरोजा-वाला यस्य स तथा, अधिकृतवाचनायां भुजमोचकशब्दादारभ्य चेदमधीयते न सामलीत्यादीति (४७), 'दालिमपुप्फप्पगासतवणिज्जसरिसनिम्मलमणिद्धकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा च रक्तेत्यर्थः, तपनीयसदृशी च-रक्तसुवर्णसमवर्णेत्यर्थः, निर्मला च सुस्निग्धा च प्रतीता केशान्ते-वालसमीपे केशभूमिः-केशोत्पत्तिस्थानभृता मस्तकत्वक् यस्य स तथा (४८), 'घणनिचियेत्यादि प्राग्वत् , छत्राकारोत्तमाङ्गदेशः, उन्नतत्वसाधर्म्यात् (४६), 'णिव्वणसमलट्ठमठ्ठचंदडसमणिडाले निवणं-विस्फोटकादिकृतक्षतरहितं समम्-अविषममत एव लष्टंमनोज्ञं मृष्टं-शुद्ध चन्द्रार्धसम-शशधरशकलसदृशं ललाटम्-अलिकं यस्य स तथा । 'उडवइपडिपुण्णसोमवयणे' इह प्राकृतत्वात् प्रतिपूर्णोडपतिसौम्यवदन इति दृश्यम् उडुपतिः-चन्द्रः। 'अल्लोणपमाणजुत्तसवणे' आलीनौ न तु टप्परौ प्रमाणयुक्तौ-स्वप्रमाणोपेतौ श्रवणौ-कौं यस्य स तथा, अत एव 'सुश्रवणः शोभनश्रोत्रः शोभनश्रवणव्यापारो वा । 'पीणमंसलकवोलदेसभाए' पीनौ-अकृशौ यतो मांसलौ-समांसौ कपोलो-गण्डौ तयोस्तावेव वा मुखस्य देशरूपो भागौ यस्य स तथा (५४), 'आणामियचावरुइलकिण्हन्भराइतणुकसिणणिभमुहे' आनामितम्-ईषन्नामितं यच्चापं-धनुस्तद्वदृचिरे-मनोजे कृष्णाभ्रराजीव-कालिकमेघरेखेव तनुके कृष्णे-काले स्निग्धे च-सुच्छाये भ्रवौ--नेत्रावयवविशेषौ यस्य स तथा, वाच XXXXXXXXXXXXXXXXXXXXXXXXX ॥ २७॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy