SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ दिए तांश्छद्मस्थो वर्णादिभिर्न जानातीति 'समणाउस्सो'त्ति हे श्रमण ! हे आयुष्मन् !, अथवा श्रमणश्चासावायुष्मांश्चेति समासस्तस्यामन्त्रणं ॥१७३९ हे श्रमणायुष्मन् ! यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलाप्न जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः ४ । 'कम्हा गं भंते ! केवली समोहणंति'त्ति प्रमवघ्नन्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तये वाक्यान्तरेणाह-कम्हा णं केवली समुग्घायं गच्छंति'ति अपलिक्खीणे'त्ति स्थितेरक्षयात् 'अवेइया अनिज्जिष्ण'त्ति क्वचिदृश्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात अनिजीर्णाः-तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिज्जेत्ति से-तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाञ्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् 'बंधणेहि ति प्रदेशबन्धानुभागबन्धावाश्रित्येयर्थः, 'ठिईहि य"त्ति स्थितिबन्धविशेषानाश्रित्येत्यर्थः, "विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्ष रघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनः समुद्घातयन्तीति ५। 'आवज्जीकरणे त्ति आवर्जीकरणम्-उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपं, तच्च केवलिसमद्घातं प्रतिपद्यमानः प्रथममेव करोति ६ । 'पढमे समए दंडं करेइ'त्ति प्रथमसमय एव स्वदेहविष्कम्भमूर्ध्वमधश्चायतमभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घातं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, "बिइए कवाडं करेइ'त्ति द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात्पावतो लोकान्तगामिकपाटमिव कपाटं करोति, 'मय'ति तृतीये समये तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मथिसदृशं मन्थानं करोति लोकान्तप्रापिणमेव, 'लोगं पूरेइत्ति चतुर्थसमये सह लोकनिष्कुटर्मन्थान्तरणि पूरवति, ततश्च सकलो लोकः पूरितो भवति, लोयं पडिसाहरइ'त्ति पञ्चमे समये मन्थान्तरालपूरकत्वेन ये लोकपूरकाः प्रदेशास्ते लोकशब्देन उच्यन्ते, अतो मन्थान्तरालपूरकान् प्रदेशान् संहरति मथिस्थो भवतीतियावत्, ‘मंथं पडिसाहरइत्ति षष्ठ समये मध्याकारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत्, 'कवाड पडिसाहरइ'त्ति सप्तसमये कपाटाकारधारकप्रदेशसहरणाइण्डस्थो भवतीत्यर्थः, 'अट्ठमे समए दंड पडिसाहरइ, साहरिता सरीरत्थे भवइ'त्ति, इह यद्यपि संहृत्येत्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यर्थवृत्त्या न कालभेदोऽस्ति द्वयोरप्यष्टमसमयभावित्वेनोक्तत्वादिति ७ । 'नो मणजोग ॥१७३॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy