________________
श्रीआचा राजवृत्तिः (शीलासा.)
विमो.८ उद्देशकः १
॥५३०॥
X
दन्वतामेकांशावलम्बिना मतिमेदाः प्रादुष्ष्यन्ति, तदुक्तम्-"लोकक्रियाऽऽत्मतत्त्वे विवदन्ते वादिनो विभिसार्थम् । अविदितपूर्व येषां स्यादादविनिश्चितं तत्त्वम् ॥१॥" येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथश्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रंकृतादौ विस्तरेण सुविहितत्वादिति । ते च विवदन्तः परस्परतो विप्रतिपन्नाः "मामकम्" इत्यात्मीयं आत्मीयं धर्म प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति, तथाहि-केचित्सुखेन धर्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धर्मो मोझायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान प्रतारयन्ति तेषामुत्तरं दर्शयति-'अत्रापि' अस्ति लोको नास्ति वेत्यादी जानीत यूयम् 'अकस्मादिति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्ने कस्मादकस्माद् हेतोरभावादि- 1 त्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत यथा न भवत्येवमकस्माद् , हेतोरभावादिति, तथाहि-यद्येकान्तेनैव लोको| ऽस्ति ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद् एवं च तत्प्रतिपक्षोऽप्यलोकोऽस्तीतिकृत्वा लोक एवालोकः स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोंका मावा, तदभावे च तत्प्रतिपक्षभूतस्य लोकस्व प्रागेवाभावः सर्वगतत्वं वा लोकस्य स्यादिति, अथवा लोकोऽस्ति न च लोको भवति, लोकोऽपि नामास्ति, न च लोकोऽलोकाभाव इत्येवं स्याद्, अनिष्टं चैतव , किंच-अस्तेयापकत्वे लोकस्य घटपटादेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात् , किं च अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात् , प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्व
॥ ५३०॥
XX