SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ मुष्मिकाशंसारहितः, तथा मैथुनादुपरतः, अस्य चोपलक्षणत्वादपरमहाव्रतधारी च, तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चुकं मुक्त्वा निर्मलीभवति एवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति ॥ ९॥ समुद्राधिकारमधिकृत्याह. जमाहु ओहं संलिलं अपारयं, महासमुहं व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति बुच्चई ॥१०॥ ___ 'यं संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम् ?-ओषरूपं, तत्र द्रव्यौषः सलिलप्रवेशो भावौध आस्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम् , इत्यनेनास्य दुस्तरत्वे कारणमुक्तम् , अर्थमं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः' सदसद्विवेकज्ञः, स च मुनिरेखंभूतः । कर्मणोऽन्तकृदुच्यते ॥ १०॥ अपिच जहा हि बडू इह माणवेहिं, जहा य तेसिं तु विमुक्ख आहिए। अहा तहा बन्धविमुक्ख जे विऊ, सेहु मुणी अंतकडेत्ति वुच्चई ॥११॥ 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बई' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ किश्च 8.३॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy