SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीआचा 'राङ्गवृत्तिः (शीलाङ्का.) ॥ ६०२ ।। सङ्गमकुर्वन् भिक्षुः 'परिव्रजेत्' संयमानुष्ठायी भवेत्, तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन् पूजनं त्यजेत् न सत्काराभिलाषी भवेत्, तथा 'अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन् जन्मनि तथा 'परलोके' स्वर्गादाविति, एवंभूतश्च 'कामगुणैः' मनोज्ञशब्दादिभिः 'न मीयते' न तोन्यते न स्वीक्रियत इतियावत् 'पण्डितः ' कटुविपाककामगुणदर्शीति ॥ ७ ॥ तहा विमुकस्स परिन्नचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो । विसुज्झई जंसि मलं पुरेकडं, समीरियं रूप्पमलं व जोइणा ॥ ८ ॥ ' तथा ' तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो - निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञा- सदसद्विवेकस्तया चरितु शीलमस्येति परिज्ञाचारी - ज्ञानपूर्वं क्रियाकारी तस्य, तथा धृतिः - समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम् - असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थ वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ? - ' समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति ॥ ८ ॥ साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह- सेहु परिन्नासमयंमि वहई, निराससे उवरय मेहुणा चरे । भुयंगमे जुन्नतयं जहा चए, विमुचई से दुहसिज माहणे ॥ ९ ॥ 'स' एवंभूतो भिक्षु लोचरगुणधारी पिण्डैषणाध्ययनार्थ करणोद्युक्तः परिज्ञासमये वर्त्तते, तथा 'निराशंसः ' ऐहिका श्रुतस्कं० २ चूलिका • ४ विमुक्त्य० ॥ ६०२ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy