________________
श्रीआचारावृत्तिः शीलाका.)
चूलिका २ परक्रि०६
॥८६८॥
पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापारूपा ता पक्रियाम् 'आध्यात्मिकोम' आत्मनि क्रिय माणां, पुनरपि विशिनष्टि—'सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलषेत्, मनसा न तत्राभिलाषं कुर्यादित्यर्थः, तथा न त परक्रिया नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च पक्रियां विशेषतो दर्शयति'से' तस्य साधोर्निष्प्रतिकर्मशरीरस्य सः 'पर' अन्यो धर्मश्रद्धया पादौ ग्जोऽवगुण्ठिनौ आमृज्यात कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेनापि नियमयेदिति, एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तंरञ्जयन्तं, तथा तैलादिना म्रनयन्तमभ्यञ्जयन्तं वा तथा लोधादिना उद्वर्त्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्त तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्' मनसा नामिलषेत नापि नियमयेत-कारयेद्वाचा कायेनेति ॥ शेषाणि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तककेऽपि तुल्यत्वात्सङ्क्षेपरुचिः सूत्रकारोऽतिदिशति- 'एवम्' इति याः पूर्वोक्ताः क्रिया-रजाप्रमार्जनादिकास्ताः 'अन्योऽन्य' परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतन्योऽन्योऽन्यक्रियासप्त कक इति ।। किश्च
से सिया परो सुद्धणं वहवलेण वा तेइच्छं आउट्टे, से सिया परो असुद्धेणं वइबलणं तेइच्छं आउट्टे से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कड्डित्त वा कट्ठावित्तु वा तेइच्छं आउटाविज नो तं