SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ वोसिरिजा ॥ सू० १६६ ।। स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिकाः क्रियाः कालत्रयवनिः कुर्युस्तत्रैहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शान्यादीन्युप्तवन्तो वपन्ति वस्यन्ति वा तत्राप्युच्चारादि न विदध्यादिति ॥ किञ्च - भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - 'आमोकानि' ● ८५२ ।। कचवरपुञ्जाः 'घसाः' वृहत्यो भूमिराजय : 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः प्रतीतः 'कडवाणि' इक्षुजो नलकादिदण्डकाः 'प्रगर्त्ताः' महागर्त्ताः 'दरी' प्रतीता 'प्रदुर्गाणि' कुडयप्राकारादीनि एतानि च समानि वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयम विराधनासम्भवान्नोच्चारादि कुर्यादिति । किञ्च - स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - 'मानुषरन्धनानि' चुल्न्यादीनि तथा महिष्यादीनुद्दिश्य यत्र किञ्चित्क्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिमयान्नोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः 'वेहान सस्थानानि' मानुषोल्लवनस्थानानि 'गृधपृष्ठस्थानानि यत्र मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिदिग्धदेहा निपत्यास ते 'तरुपतनस्थानानि ' यत्र मुव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च - पर्वतोऽभिधी - यत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति ॥ अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ॥ तथा - प्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्च त्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥ किञ्च स भिक्षुरङ्गारदाहस्थान श्मशानादौ नोच्चारादि विदध्यादिति ॥ अपि च-- ' नद्यायतनानि' यत्र तीर्थस्थानेषु भीआचा राङ्गवृत्तिः (शीलाङ्का.) ****** श्रुतस्कं० २ चूलिका • २ उच्चार प्रश्रवणा ४- (१०) ॥ ८५२ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy