SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ॥८३१॥ जे तत्थ साहम्मिया संभोइया समन्ना उवागच्छिजा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिजा, नो चेव णं परवडियोए ओगिझिय २ उवनिमंतिजा २ ॥ सू० १५६ ॥ स भिमरागसागारादौ प्रविश्यानुविचिन्त्य च-पर्यालोच्य यतिविहारयोग्य क्षेत्रं ततोऽवग्रहं बसत्यादिकं याचेत. यश्च याच्यस्तं दर्शयति-यस्तत्र 'ईश्वर' गृहस्वामी तथा यस्तत्र 'समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रहक्षेत्रावग्रहम् 'अनुज्ञापयेत' यावेत, कथमिति दर्शयति-'काममिति तवेच्छया 'खल' इति वाक्यालङ्कारे आयुष्मन् । गृहपते ! 'अहालंद मिति यावन्मात्रं कालं भवाननुजानीते 'अहापरिन्नाय'ति यावन्मानं क्षेत्रमनुजानीषे तावन्मानं कालं तावन्मानं च क्षेत्रमाश्रित्य वयं वसाम इति यावत् , इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिका:-साधवः समागमिष्यन्ति एतावन्मात्रमवग्रहिण्यामस्तत ऊर्ध्व विहरिष्याम इति ॥ अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीतेऽवग्रहे स साधुः किं पुनः कुर्यादिति दर्शयति-येत्र केचन प्राघूर्णकाः 'साधर्मिकाः' साधवः 'साम्भोगिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद् , यथा-गृहीत यूयमेतन्मयाऽऽनीतमशनादिक क्रियतां ममानुग्रह इत्येवमुपनिमन्त्रयेत, न चैव 'परवखियाए'ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत् , किं तर्हि , स्वयमेवानीतेन . U
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy