________________
भीआचारावृत्तिः सीलावा.) .८१६ ॥
श्रुतस्कं०२ चूलिका.. वस्त्रै०५ उदेशका २
स भिक्षुभित्तिशिलादौ पतनादिभयावस्त्रं नातापयेदिति ॥ स भिक्षः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चमस्य प्रथमोद्देशकः समाप्तः ॥२-१-५-१॥
॥ अथ पञ्चम-वस्त्रैषणाध्ययने द्वितीय उद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से भिक्ख वा २ अहेसणिज्जाई वत्थाई जाइजा अहापरिग्गहियाई वत्थाई घारिजा नो धोइज्जा नो रएजा नो धोयरत्ताई वत्थाई धारिजा अपलिउ'चमाणो गामंतरेसु, ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गियं १॥ से भिक्ख वा २ गाहावइकुलं पविसिउकामे सव्वं चीवरमायाए गाहावइकुलं निक्खमिज वा पविसिज वा, एवं बहिय विहारभूमि वा वियारभूमि वा गामाणगामं वा दुइजिजा२, अह पुण एवं जाणिज्जा तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए ३ ॥ सू० १४९॥
॥
१६॥