________________
भीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ८१२ ॥
आसां चतसृणां प्रतिमानां शेष विधिः पिण्डेषणावन्नेय इति ॥ किश्च - 'स्यात् ' कदाचित् 'णम्' इति वाक्यालङ्कारे 'एतया' अनन्तरोक्तया वस्त्रेषणया वस्त्रमन्वेषयन्तं साधु परो वदेद्, यथा-आयुष्मन् ! श्रमण ! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि इत्येवं तस्य न शृणुयात् शेषं सुगमं यावदिदानीमेव ददस्वेति, एवं वदन्तं साधु परो याद, यथा- अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि इत्येतदपि न प्रतिशृणुयाद्, बदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधु' 'परी' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद् वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थं भूतोपमर्देनापरं करिष्याम इति एतत्प्रकारं वस्त्रं पश्चात्कर्मभयान्लामे सति न प्रतिगृह्णीयादिति ॥ तथा स्यात्पर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणा घर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात् अथ प्रतिषिद्धोऽप्येवं कुर्यात्, ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनादिसूत्रमपि ॥ स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववन्निषेधादिकश्चर्च इति ॥ किश्च - स्यात्परो याचितः सन् कदाचिद्वस्त्रं 'निसृजेत्' दद्यात् तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवाप्रत्युपेक्षितं गृह्णीयाद्, यतः केवली ब्रूयात्कर्मोपादानमेतत् किमिति ?, यतस्तत्र किञ्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत्, सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति ॥ किश्च - सेभिक्खू वा २ से जं पुण वत्थं जाणिजा, सअंडं जाव ससंताणं तहप्पगारं वत्थं
.
श्रुत• २ चूलिका० १ वस्त्रै०५
उद्दे शका १
॥ ८१२ ॥