SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ भीआचा राङ्गवृत्तिः (बीलाङ्का.) ॥ ८०२ ॥ वृक्ष फलानि प्रेक्ष्य नैवं वदेत्, तद्यथा- एतानि फलानि पक्वानि' पाकप्राप्तानि तथा 'पाकखाद्यानि ' बद्धास्थीनि गर्त्ताप्रक्षेपकोद्रवपलालादिना विषच्य भक्षणयोग्यानीति, तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अनववद्धास्थीनि कोमलास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति एवमादिकां भाषां फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह-स | भिक्षु सम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत्, तद्यथा--' असमर्था:' अतिपरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्कार्थ उक्तः, तथा 'बहुनिर्वर्त्तितफला:' बहूनि निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूता:' बहूनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनवबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवंभूतामनवद्य भाषां भाषेतेति । किञ्च स भिक्षुर्वहुसम्भूता ओषधीर्वीक्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा - पक्का नीला आर्द्राः छविमत्यः 'लाइमाः' लाजायोग्या रोपणयोग्य वा, तथा 'भजिमाओ ति पचनयोग्या भञ्जनयोग्या वा 'बहुखज्जा' बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत । यथा च भाषेत तदाह- समिक्षर्वहुसंभूता ओषधीः प्रेक्ष्येतद् न यात्, तद्यथारूढा इत्यादिकामसावद्य भाषां भाषेत ॥ किञ्च — से भिक्खू वा २ तहपगाराई सद्दाहं सुणिज्जा तहावि एयाई नो एवं वइज्जा, तंजहा 8888 श्रुतस्कं० २ चूलिका ० १ भाषा० ५ उद्देशकः ? ॥ ८०२ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy