SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रत. श्रीआचाराङ्गवृत्तिः शीलाका.) भाषा०४ उद्देशका. ॥७९ ॥ वागाचाराः-वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य' ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तत्र यादृगभूता भाषा न भाषितव्येति तत्तावदर्शयति-इमान्' वक्ष्यमाणान् 'अनाचारान्' साधूनामभाषणयोग्यान पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात् , तद्यथा-ये केचन क्रोधाद्वाचं ' विजन्ति' विविधं व्यापारयन्ति-भाषन्ते यथा चौरस्त्वं दासस्त्वमित्यादि तथा मानेन भाषन्ते यथोत्तमजातिरह हीनस्त्वमित्यादि तथा मायया यथा-ग्लानोऽहमपरसन्देशक वा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभेनाहमनेनोक्तेनातः किश्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घट्टनेन परुष वदन्ति अजानाना वा, सर्व चैतक्रोधादिवचनं सहावद्येन-पापेन गयेण वा वर्तत इति सावधं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावद्यं वचनं वर्जनीयमित्यर्थः, तथा केनचित्सार्द्ध साधुना जन्पता नैव सावधारणं वचो वक्तव्यं यथा 'ध्रवमेतत् निश्चितं वृष्ट्यादिक भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कश्चित्साधु भिक्षार्थ प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुज्महे वयं स तत्राशनादिकं लब्ध्व समागमिष्यति, यदिवा ध्रियते तदर्थ किश्चित् नैवासौ तस्मान्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम् , अथ चैवंभृतां सावधारणां वाचं न ब्र याद् यथाऽऽगतः कश्चिद्राजादिनों वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रय योज्य, यमर्थ सम्यग न जानीयाचदेवमेवैतदिति न यादिति भावार्थः, सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा-'अनुविचिन्त्य' विचार्य ॥७९ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy