SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ . पयाविजा वा २ अह भिक्खूणं पुच्चोवइट्ठा एस पतिन्ना जं तहप्पगारे सागारिए उवस्सए नो ठाणं घा। चेइज्जा ३॥ सू० ६७॥ स भिक्षयं पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्वियं तिष्ठन्ती जानीयात , तथा 'सखुड्डु'न्ति सबालं, यदिवा | सह क्षद्वैरवबद्धः-सिंहश्वमार्जारादिभिर्यो वर्तते, तथा पशवश्च मक्तपाने च, यदिवा पशूनां भक्तपाने तयुक्तं तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद् , यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोगृहपतिकुटुम्बेन सह संबसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्शयति-'अलसगे'त्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछी प्रतीते, एते व्याधयस्तं साधुमुबाधेरन् , अन्यतरद्वा दुःखं 'रोग' ज्वरादिः 'आतङ्कः' सद्यः प्राणहारी शूलादिस्तत्र समुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यङ्ग्यात् तथेषन्म्रक्षयेद्वा पुनश्च स्नान-सुगन्धिद्रव्यसमुदयः, कन्काकषायद्रव्य क्वाथः, लोध्र-प्रतीतं, वर्णकः-कम्पिल्लकादिः, चू! यवादीनां पद्मक-प्रतीतम् , इत्यादिना द्रव्येण ईषत्पुनः पुनर्वा घर्षयेत् , घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत् , ततश्च शीतोदकेन वा उष्णोदकेन वा 'उच्छोलेज'त्ति ईषदुच्छोलनं विदध्यात् प्रक्षालयेत पुनः पुनः, स्नानं वा-सोत्तमाङ्गं कुर्यात्सिञ्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वासंधः कृत्वाऽग्निमुज्ज्वालयेत्प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् 'आतापयेत्' सकृत् प्रतापयेत्पुनः पुनः। अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते सागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ।। ॥ ७३१॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy