________________
॥ ७२३ ॥
त्रिविधा द्रव्यशय्या भवति, तद्यथा - सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रासुके, मिश्राऽपि तत्रैवार्द्ध परिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । 'क्षेत्र' मिति तु क्षेत्रशय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नुतुबद्धादिके काले क्रियते । तत्र सचित्तद्रव्यशय्योदाहरणार्थमाह
उकलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एवं तु उदाहरणं नाथव्वं दव्वसिजाए ॥ ३०० ॥ अस्या भावार्थ: कथानकादवसेयः, तच्चेदम् - एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषयप्रवेशे पनि निवेश्य चौर्येण वर्त्तेते, तयोश्च भगिनी वन्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः ताभ्यां च प्रतिपन्नः, तया च वन्गुमत्योक्तं यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पञ्चिविनाशाय भविष्यत्यतो निर्द्धाटयते, ततस्ताभ्यां तद्वचनान्निर्द्धाटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति - सैव वल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कल कलिङ्गौ नैमित्तिको, सातयोक्त्या गौतमं पूर्वनैमित्तिकं निर्द्धाटितवती, अतस्तत्प्रद्वेषात्प्रतिज्ञामादाय सर्पपान् वपन्निर्गतः सर्षपाश्च वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पन्ली समस्ता लुण्टिता दग्धा च गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेद्दाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति । भावशय्याप्रतिपादनार्थमाहदुविहाय भावसिज्जा कायगए छव्विहे य भावंमि । भावे जो जत्थ जया सुहदुहगन्भाइ सिज्जासु ॥ १०१ ॥
•8888
॥ ७२३ ॥