________________
श्री आचागङ्गवृत्तिः
(शोलाङ्का.)
॥ ६२२ ॥
भिक्षोभिण्या वा 'सामग्र्यं सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जन मिति ॥ २-१-१-११ ॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिभ्रमाप्ता ॥
---
॥ अथ द्वितीय - शय्यैषणाध्ययने प्रथमोह शकः ॥
उक्तं प्रथममध्ययनं साम्प्रतं द्वितीयमारभ्यते, अस्य वायमभिसम्बन्धः - इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्ड ग्रहण विधिरुक्तः, स च गृहीतः सम्भवश्यमम्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गत गुणदोषनिरूपणार्थं द्वितीयमध्ययनम् अनेन च सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नाम निष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डेषणानियुक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवं द्वितीयगाथया आविर्भाव्य निक्षेपं च तृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनाहत्य नियुक्तिकदाह
दव्वे खिते काले भावे सिजाय जा तहिं पंगयं । केरिसिया सिज्जा खलु संजयजोगप्ति नायव्वा १ ॥ २९८ ॥
द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र व या द्रव्यशय्या तस्यां प्रकृतं तामेव च दर्शयति-कीदृशी सा द्रव्यशय्या ? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्या व्याचिख्यासयाऽऽहतिविहाय दव्वसिज्जा सचिताऽचित्त मीसगा चेव । वित्तंमि जंमि खित्ते काले जा जंमि कालंमि ॥ २९९ ॥
श्रुत• २ चूलिका ० १ शय्यैष० १ उह शकः १
।। ६२२ ।।