________________
M ७१९
܀܀܀
अथशब्दोऽविकारान्तरे, किमधिकुरुते ९, सप्त पिण्डेषणाः पानैषणाश्चेति, 'अथ' अनन्तरं भिक्षुर्जानीयात्, काः ? - सप्तपिण्डेषणाः पानैषणाश्च ताश्चेमाः, तद्यथा – “ असंसडा १ संसडा २ उद्धडा ३ अप्पलेषा ४ उग्गहिआ ५ पग्गहिया ६ उज्झियधम्मेति, अत्र च द्वये साधवो गच्छान्तर्गताश्च गच्छविनिर्गताश्च तत्र गच्छान्तर्गतानां सप्तनामपि ग्रहणमनुज्ञातं गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रह इति, तत्राद्यां तावद्दर्शयति- 'तत्र' तासु मध्ये 'खलु' इत्यलङ्कारे, इमा प्रथमा पिण्डेषणा, तद्यथा - असंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र विशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तच्चिन्ता न कृता, शेषं सुगमम् ॥ तथाऽपरा द्वितीया पिण्डैषणा, तद्यथा - संसृष्टो हस्तः संसृष्टं मात्रकमित्यादि सुगमम् ॥ अथापरा तृतीया पिण्डेषणा, तद्यथा इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः, ते चामी -गृहपत्यादयः कर्मकरीपर्यन्ताः, तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्क्षिप्तमशनादि स्यात्, भाजनानि च स्थालादीनि सुबोध्यानि नवरं 'सरगम्' इति शरिकाभिः कृतं सूर्पादि 'परगं' वंश निष्पन्नं छब्बकादि 'वरगं' मण्यादि महार्घमूल्यं, शेषं सुगमं यावत्परिगृह्णीयादिति, अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्टौ भङ्गा, तेषु चाष्टमो मङ्गः संसृष्टो हस्तः संसृष्टं मानं सावशेष द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति || अपरा चतुर्थी पिण्डेषणान्पलेपा नाम, सा यत्पुनरेवमन्पलेपं जानीयात् तद्यथा - 'पृथुकम्' इति भुग्नशाल्याद्यपगततुषं यावत् 'तन्दुललम्बे' इति भुग्नशान्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथा पं
॥ ७१९ ॥