SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः बीलाङ्का.) ॥ ६९४ ॥ दूसेण वा वालगेण वा आविलियाण परिवालियाण परिसावियाण आहहु दलहज्जा तप्पगारे पाणणजायं अफासुर्य लाभे संते नो पडिगाहिजा ॥ सू० ४३ ॥ भिक्षुगृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात् तद्यथा- 'अंबगपाणगं वे 'त्यादि सुगमं, नवरं 'मुहिया' द्राक्षा कोलानि-बदराणि, एतेषु च पानकेषु द्राक्षावदशम्बिलिकादिकतिचित्पानकानि तत्क्षणमेव संम क्रियन्ते अपराणि त्वाम्राम्बाडका दिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि 'सास्थिकं' सहास्थिना कुलकेन यद्वर्त्तते, तथा सह कणुकेन त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् 'असंयतः' गृहस्थो भिक्षुमुद्दिश्य - साध्वर्थं द्राक्षादिकमामधें पुनर्वंशत्वग्निष्पादितच्छब्ब केन वा, तथा दूसं वस्त्रं तेन वा, तथा 'वालगेणं'ति गव। दिवालधिवालनिष्पन्नचालनकेन सुघरका गृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थं सकृदापीडय पुनः पुनः परिपीडय तथा परिस्राव्य निर्गान्याहृत्य च साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात्, ते चामी उद्गमदोषाः - ' आहाकम्मु ? देसिभ २ पूतीकम्मे ३ अ मीसजाए अ ४ । ठषणा ५ पाहुडियाए ६ पाओअर ७ की ८ पामिच्चे ६ ॥ १ ॥ परियहिए १० अभिहडे ११ उम्भिन्ने १२ मालोहडे १३ इअ । अच्छेज्जे १४ अणिसट्टे १५ अज्झोअरए १६ अ सोलसमे ॥ २ ॥” सार्थं यत्सचित्तमचित्तीक्रियते अचित्तं वा यस्पच्यते तदाघाकर्म १ । तथाऽऽत्मार्थं यत्पूर्वसिद्धमेव लड्डुकचूर्णकादि साधुमुद्दिश्य पुनरपि संतप्तगुडादिना संक्र श्रुत. २ चूलिका १ पिण्डै० १ उद्देशकः ८ ॥ ६९४ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy