________________
॥ ६५६ ॥
संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए २ ॥ सू० १७ ॥
समिक्षुर्यदि पुनरेवंभूतं ग्रामादिकं जानीयात्, तद्यथा- ग्रामे वा नगरे वा यावद्राजधान्यां वा संखडिभविष्यति, तत्र च चरकादयोऽपरे वा मिक्षाचराः स्युग्तस्तदपि ग्रामादिकं संखडिप्रतिज्ञया 'नाभिसन्धारयेद्गमनाथ' न तंत्र गमनं कुर्या - दित्यर्थः ॥ तद्गतांश्च दोषान् सूत्रेणैवाह - केवली . याद् यथैतदादानं - कर्मोपादानं वत्तत इति दर्शयति-सा च संखडि: आकीर्णा वा भवेत् - चरकादिभिः संकुला 'अवमः 'हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णामवमां चानुप्रविशतोऽपी दोषाः, तद्यथा - पादेनापरस्य पाद आक्रान्तो भवेत् हस्तेन वा हस्तः संचालितो भवेत्, 'पात्रेण वा' भाजनेन वा 'पानं भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत्, कायेना परस्य -- चरकादेः कायः संचोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्थ्ना वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिधर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्रामी--अनेपणीयपरिभोगो भवेत् स्तोकस्य संस्कृतत्वात्प्रभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद्यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथश्चिद्देयमित्यभिसन्धि नाऽऽघाकर्माद्यपि कुर्याद्, अतोऽनेषणीय परिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं तच्चान्यस्मै दीयमानमन्तराले साधुगृह्णीयात्, तस्मादेतान् दोषानभिसंप्रधार्य संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णामवमां सङ्घडिं विज्ञाय सङ्घडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह
॥ ६५६ ॥