________________
श्रीआचागवृत्तिः भोलाङ्का.) ६४६
श्रुत. २. चूलिका-१ पिण्डै०१ उद्देशका
'उमाणं'ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति-नित्यलाभात्तेषु स्वपक्षः-संयतवर्गः परपक्षः-अपरभिक्षाचरवर्गः सर्वो भिक्षार्थं प्रविशेत , तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुयुः, तत्र च षट्कायवधा, अल्पे च पाके तदन्तरायः कृतः स्यादित्यतस्तानि नो भक्तार्थ पानार्थ वा प्रविशेनिष्क्रामेद्वेति १॥ सर्वोपसंहारार्थमाह__'एतदिति यदादेरारभ्योक्तं खलुशंब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्र्यं समग्रता यदुद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणेङ्गालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्र्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्पामग्र्यं सूत्रेणेव दर्शयति-यत् 'सर्वार्थः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सम्यगितः समितः, संयत इत्यर्थः, पश्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत , एवंभूतश्च सह हितेन वर्तत इति सहितः, सहितो वा ज्ञानदर्शनचारित्रैः एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ, त्वाऽहं ब्रवीमि, न तु स्वेच्छयेति । शेषं पूर्ववदिति २॥ पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ श्रु० २ ० १ ० १ उ०१॥