SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॥६३५॥ | अमीषां मध्येऽन्यत मेनापि कारणेनाहारार्थी सन् गृहपतिः-गृहस्थस्तस्य कुलं -गृहं तदनुप्रविष्टः, किमर्थ :--'पिंडवाय पडियाए'त्ति पिण्डपातो--भिक्षालाभम्तत्प्रतिज्ञया--अहमत्र भिनां लप्स्य इति, स प्रविष्टः सन् यत्पुनरशनादि जानीयात् , कमिति दर्शयति-'प्राणिभिः' रमजादिभिः ‘पन कैः' उल्लीजीवः मंसक्तं 'बीज' गोधमादिभिः 'हरितैः' दुर्वाऽकुगदिभिः 'उन्मिभं' शबलीभूतं. तथा शीतोदकेन वा 'अवसितम्' आकृतं 'रजसा वा' सचित्तन 'परिघासियं त्ति परिगुण्डितं, कियद्वा वश्यनि ? 'तथाप्रकारम्' एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं 'परहस्ते' दाहस्ते परपात्र वा स्थितम् 'अप्रासुक' मचित्तम् 'अनेषणीयम्' आधाकर्मादिदोषदुष्टम् 'इति' एवं मन्यमानः 'स' भावभिक्षुः सत्यपि लाभे न प्रति गृह्णीयादिन्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादिः भावो ग्लानतादिः, इत्यादिभिः कारणरुपस्थितैरल्पबहुत्वं पर्यालोच्य गीतार्थों गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसचोन्मिश्रं वा गहीतं तत्र विधिमाह-से आहच्चे'त्यादि स च भावभिनुः 'आहच्चे ति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृहीयात्, स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति 'तम्' एवंभूतमशुद्धमाहारमादायैकान्तम् 'अपक्रामेत्' गच्छेत , तं 'अपक्रम्य' गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयति'अहे आरामंसि वत्ति अथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसङग्रहार्थो वा,, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोऽभाववचनः; अपगताण्ड इत्यर्थः, एवमन्पबीजे ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy