________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
नामोपधानं स्थापनापधानं द्रव्योपधानं भावोपधानं च, अनम्याप्येवमेव चतुद्रा निक्षेपः, तर द्रव्यश्रतमनुपयुक्तस्य यत् श्रुतं द्रव्यार्थं वा यत् श्रुतं बुधावनिकश्रुतानि चेति द्रव्यश्रुतम् . मावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुनविषयोपयोगः ।। तत्र सुगमनामस्थापनाब्युदासेन द्रव्याधुपधानप्रतिपादनायाहदव्ववहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदसणत्वचरण हि इहाहिगयं ।। २८२॥
उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभृत मुपधानं द्रव्योपधानं तत्पुनः शय्यादी सुखशयनार्थ शिरोऽवष्टम्भनवस्तु, 'भावोपधान मिति भावस्योपधानं भावोपधानं, तत्पूननिदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरं, तेन हि चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः ।। किं पुनः कारणं चारित्रोपष्टम्भकतया तपो भ वो पधानमुच्यते इत्याह
जह खलु मइलं वत्थं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममढविहं । २८३॥ __'यथे'न्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि प्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्र मुदकादिभिर्द्रव्यैः शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभृतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकार कर्म शुद्धिमुपयातीति । अस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायाख्ये तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कपिगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाहओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं। छयण भेयण फेडण डहणं धुवणंच कम्माण ॥२८४