SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ।। अथोपधानताख्यं नवमे ऽध्ययने प्रथमोद्देशकः ।। ॥ ५८५॥ उक्तमष्टममध्ययनं, साम्प्रतं नरममारभ्यते, अम्य चायभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसु योऽधोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना म्वत एवाचीण इन्येतनवमेऽध्ययने प्रतिपाद्यते, अनन्तगध्ययनसम्बन्धस्त्वयम्-इहाभ्युद्यतमरणं त्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽयाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृतसन्मार्गावतारं तथा घातितघातिचतुष्टयाविभूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनं समवसरणस्थं सत्चहिताय धम्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनम्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं विभणिपुराहजो जइया तित्थयरोसो तइया अप्पणो य तित्थम्मि । वण्णेह तवो कम्म ओहाणसुयंमि अज्झयणे ॥२७॥ __ यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म व्यावर्णयतीत्ययं सर्वतीर्थकृता कम्पः, इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपःकम्मोतान्यथेत्यारेकाव्युदासार्थमाह ॥ ५८५।
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy