SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विमो०८ उद्देशकः ४ श्रीआचारावृत्तिा (शीलाका.) ॥ ५५२॥ शीतस्पर्श' शीतापादितं दुःखविशेष भावशीतस्पर्श वा स्त्र्याधुपसर्गम् 'अध्यासयितुम्' अघिसोढुमित्यतो भक्तपरिशेङ्गितमरणपादपोपगमनमुत्सर्गतः कत्तं युक्तं, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुपसर्गः समुत्थितो रोगवेदनां वा चिराय सोढनालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसगितस्तदेवाभ्युपेयादित्याह-'स' साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान् , सर्वसमन्वागतप्रज्ञानेनात्मना कश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया आ-समन्तात्तो-व्यवस्थित आवृत्तो, यदिवा शीतस्पर्शवातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकित्साया अकरणतया वसुमान सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो-व्यवस्थित इति, स चोपसर्गितो वातादिवेदनां चासहिष्णुः किं कुर्यादित्याह-हुहेती यस्माच्चिराय वातादिवेदना सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणोद्वन्धनाडुपन्यासेनापि न मुश्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपाजिततपोधनस्य तदैव श्रेयो यदैकः कश्चिन्निः सपत्नीकोऽपवरके प्रवेशितः आरूढप्रणयप्रेयसीप्रार्थितस्तनिर्गमोपायमलभमान. आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विपं वा भक्षयेत् पतनं वा कुर्याद् दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जद्यात् । ननु च वेहानसादिकं बालमरणमुक्तं, तच्चानाय, तत्कथं तस्याभ्युपगमः, तथा चागम:-"'इच्चेएणं पालमरणेणं मरमाणे जीवे अणतेहिं नेरहयभवग्ग १ इत्येतेन बालमरणेन म्रियमाणो जीवोऽनन्तै रयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदनं चातुरन्तं संसार. कान्तारं भूयो भूयः परिवत्तते । ॥ ५५२॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy