________________
॥४७॥
सव्वाओ दिसाओ सव्वाओ अणदिसाओ साहेति ॥ सू०८॥ 'अपरिणाये'त्यादि योऽयं पुरि शयनात्पूर्णः सुखदुःखाना वा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच पुरुषस्योपादानम् , उपलक्षणं चैतत् , सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति सः 'अपरिज्ञातकर्मा' अपरिज्ञातं कर्मानेनेत्यपरिज्ञातकर्मा, खलुरवधारणे, अपरिज्ञातकर्मैव दिगादौ भ्राम्यति, नेतर इति, उपलक्षणं चैतद् , अपरिज्ञातात्मापरिज्ञातक्रियश्चेतिः यश्चापरिज्ञातकर्मा स सर्वा दिशः सर्वाश्चानुदिशः 'साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशा भ वदिशां चोपसङ्ग्रहार्थम् ॥ ८॥ स यदामोति तदर्शयति
अणेगरूवाओ जोणोओ संधेइ (संधावइ), विरूवरूवे फासे पडिसंवेदेह ॥ सू०९॥ अनेक संकटविकटादिकं रूपं यास तास्तथा, यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैग्सुमाम् यासु ता योनयः-प्राणिनामुत्पत्तिस्थानानि, अनेकरूपत्वं चासां संवृतविवृतोभयशीतोष्णोमयरूपतया, यदिवा चतुरशीतियोनिलक्षभेदेन, ते चामी चतुरशीतिलक्षाः-''पुढवीजलजलणमारुय एक्केक्के सत्त सत्त लक्खाओ। वण पत्तय अणते दस चोद्दस जोणिलक्खाओ ॥ १ ॥ विगलिंदिएम दो दो चउरो चउरो य णारयसुरेसु। तिरिएस टुति चउरो चोद्दस लक्खा य मणुएसु ॥२॥ तथा शुभाशुमभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते
१ पृथ्वीजलज्वलनमारुतेषु एकैकस्मिन् सप्त सप्त लक्षाः। प्रत्येकवने अनन्ते दश चतुर्दश योनिलक्षाः॥१॥ विकलेन्द्रियेषु ? चतसश्चतस्रश्च नारकसुरेषु । तिरश्चि भवन्ति चतस्रश्चतुर्दश लक्षाश्च मनुष्येषु ॥२॥
॥४७॥