________________
H३५॥
स्वभावतः प्रवृत्तान, निवृत्तानां स्वभावतः। नाहं कतैति भूतानां, यः पश्यति स पश्यति ॥ २॥ केनाञ्जितानि नयनानि मृगागनानां, कोऽलङ्करोति रुचिरागाहान्मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति, को वा करोति (दधाति) विनयं कुलजेषु पुस्सु ? ॥ ३॥" तथाऽन्येऽभिदधते-समम्तमेतज्जीवादीश्वरात्प्रसूतं, तस्मादेव स्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः ?, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तं च-"अज्ञो(न्यो) जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेच्छवभ्रं वा स्वर्गमेव वा ॥१॥" तथाऽन्ये व वते न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि १, आत्मनः, कः पुनरयमात्मा १, आत्माद्वैतवादिनां विश्वपरिणतिरूपः आत्मायत उक्तश्च-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" तथा-"पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य"मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥
तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षभिश्चिन्त्यमानाश्चतुरशीतिविकन्पा भवन्ति, तद्यथा-नास्ति जीवाः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धी, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदी प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येक द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति ८४ । अयमत्रार्थः-नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा ?, न चात्मन
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥३५॥