________________
तत्वात् , कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्, उक्तं च-"काल: पचति भूतानि, कालः श्रीआचा
पसंहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥१॥" स चातीन्द्रियो युगपच्चिरक्षिप्रक्रिया- व्ययन १ राङ्गवृत्तिः
भिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्त-यामाहोरात्रपक्ष-मासतु अयन-संवत्सरयुगकल्प-पन्योपमसागरोपमो-उद्देशकः १ (शीलाङ्का.)
त्सपिण्यवसर्पिणी-पुद्गलपरावर्तातीतानागतवर्तमान-सर्वाद्धादिव्यवहाररूपः १। द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात् २। तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते !, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिछेदो हस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्वयतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्गत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति ३ । चतुर्थविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः ४ । तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयोजककी नियतिः, उक्तं च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥" इयं च मस्करिपरिव्राण्मतानुसारिणी प्राय इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः ?, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्षण्यं,
॥३४॥ विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥१॥