________________
सम्य०५ उद्देशकः १
भीआचा राजवृत्तिः (शीलाङ्का.) ॥३८८॥
धिकारः ३, चतुर्थे त्वव्यक्तस्य-अगीतार्थस्य सूत्रापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः४, पश्चमके तु हृदोपमेन साधुना भाव्यं, यथा हि हृदो जलभृतोऽप्रतिस्रवः प्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विस्रोतसिकारहित इति, तथा तपःसंयमगुप्तयो निःसङ्गता चेत्ययमर्थाधिकारः ५, षष्ठे तून्मार्गवर्जना-कुदृष्टिपरित्यागः, तथा रागद्वेषौ च त्याज्यावित्ययमर्थाधिकारः ६, इति गाथात्रयार्थः ॥ नामनिष्पन्ने तु निक्षेपेन द्विधा नाम--आदानपदेन गौणं चेति, एतत द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाहआयाणपएणावंति गोण्णनामेण लोगसारुत्ति । लोगस्स य सारस्स य चउक्कओ होइ निक्खेवो ॥२३९॥
आदीयते-प्रथममेव गृह्यत इत्यादानं तच्च तत्पदं च आदानपदं तेन कारणभूतेनावन्तात्येतनाम, अध्ययनादावावन्तीशब्दस्योच्चारणाद् , गुणैर्निष्पन्नं गौणं तच्च तन्नाम च गौणनाम तेन हेतुना लोकसार इति, लोकस्य-चतुर्दशरज्ज्वात्मकस्य सार:-परमार्थो लोकसार: द्विपदं नामेत्यतः लोकस्य सारस्य च प्रत्येक चतुष्कको निक्षेपो भवति, तद्यथानामलोको यस्य कस्यचिन्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्ज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेया, तच्चैतव-तिरिअं चउरो दोसु छद्दोसु अढ दस य एक्केक्के । पारस दोसुसोलस दोसुवीसा य चउसुतु॥१॥ पुणरवि सोलस दोसुबारस दोसुतु हुँति नायव्वा । तिसु दस तिसु भट्ठच्छ य दोसु दोसुतु चत्तारि ॥ २॥ ओयरिअ लोअमज्झा चउरो चउरो य सव्वहिं णेया। तिअ तिअ | दुग दुग एक्केकगं च जा सत्तमीए उ ॥ ३॥ द्रव्यलोको जीवपुद्गलधर्माधर्माकाशकालात्मकः षड्विधः भाव
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
३८८॥