________________
॥३७॥
॥ अथ लोकसाराख्ये पञ्चमाध्ययने प्रथमोद्दशकः ।। उक्तं चतुर्थमध्ययन, साम्प्रतं पश्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गतं च जानं, तभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुगहहिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि। विरओमुणित्ति बिइए अविरयवाई परिग्गहिओ ॥२३॥ सहए एसो अपरिग्गहो य निव्विन्नकामभोगो य। अव्वत्तस्सेगचरस्स पच्चवाया चउत्थंमि ॥ २३७ ॥ हरओवमो य तवसंयमगुत्ती निस्संगया य पंचमए । उम्मग्गवजणा छहगंमि तह रागदोसे य ॥२३८॥
हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य समाहारद्वन्द्वः, प्राकृतत्वात्पु लिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयाथ सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थ एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके १, द्वितीये तु हिंसादिपापस्थानकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येतचानोई शके प्रतिपादयिष्यत इति २, तृतीये त्वेष एव विरतो मुनिरपरिग्रहो भवतीति निर्विण्णकामभोगश्चेत्ययमर्था
३८७