________________
॥ ३८५ ॥
ज्ञानावरणीयस्य ज्ञानावृतिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्म्मणां विषाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसा च क्षयोपपत्तेरित्यतः कथं कर्म्मणां सफलत्वं १, नैष दोषो, नात्र प्रकारकात्र्यमभिप्रेतम् अपितु द्रव्यकात्स्म्यं तच्चास्त्येव, तथाहि - यद्यपि प्रतिबन्धव्यक्ति न विपाकोदयतथाप्यष्टानामपि कर्म्मणां सामान्येन सोऽस्त्येवेत्यतः कर्म्मणां सफलत्वमुपलभ्यते, तस्मात् कर्म्मणस्तदुपादानादासवाद्वानिश्चयेन याति निर्याति-निर्गच्छति, तन्न विधत्त इतियावत्, कोऽसौ ? - 'वेदविद्' वेद्यते सकलं चराचरमनेनेति वेद:आगमस्तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्त्तीित्यर्थः ॥ न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह
जे खलु भो ! वीरा ते समिया सहिया सयाजया संघडदंसिणो आभोवरया अहातह लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सच्चसि परिचिए चिहिंसु, साहिसामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमत्थि उवाही १, पासगस्स न विज्जइ नस्थित्तिबेमी ॥ सू० १४० ॥ इति चतुर्थ उद्देशकः ।। ४-४ ॥ इति चतुर्थमध्ययनम् ॥ ४ ॥ यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च अधुना तत्फलमुच्यते— 'जे खलु' इत्यादि, खलुशब्दो वाक्यालङ्कारे, ये केचनातीतानागतवर्त्तमानाः 'भो' इत्यामन्त्रणे 'वीराः' कर्म्मविदारण सहिष्णवः समिताः समितिभिः सहिता
॥ ३८५ ।