SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ .३७७॥ किं कार्यमित्याह इह आणाकखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं,-जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे॥१॥ सू० १३५ ॥ 'इह' अस्मिन् प्रवचने आज्ञामाकाक्षितु शीलमस्येति आज्ञाकाङ्क्षी-सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भृतः स 'पण्डितो' विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्निहः, यदिवा स्निह्यतीति स्निहोरागवान यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुमिरिन्द्रियकषायकम्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकाङ्क्षी पण्डितो भावरिपुभिरेभिरनिहतो, नान्यत्र, यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता। यश्चैवम्भूतः स किं कुर्यादित्याह-'एगमप्पाण' मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरक, सम्भावनायां लिङ , सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः, सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावकत्वभावनैवंरूपा भावयितव्येति-"संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ?। सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः॥१॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात । स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥२॥ सदैकोऽहं न मे कश्चित, ॥३७७।।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy