________________
॥३४३ ॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
च आणाए अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नस्थि असत्थं परेण
पर ।। सू० १२४ ।। 'एकम्' अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिकं शपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुवन्धिनामकं क्षपति पृथग-अन्यत्क्ष यान्यथानुपपत्तेः, किंगुणः पुनः क्षपकणियोग्यो भवतीत्याह-'सड्डी' इत्यादि, श्रद्धा-मात पागोंद्यमेच्छा विद्यते यस्यासो श्रद्धावान 'आज्ञया' तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठ नविधायी 'मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यहो नापा इति । किं च–'लोगं च' इत्यादि, चः समुच्चये 'लोक' षड्जीवनिकायात्मकं कषायलोकं वा 'आज्ञया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिनिमित्ताभयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहतुने कुतश्चिद्भयमुपजायत इति लोक वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेन्य न कुतश्चिदैहिकामुष्मिकापायसन्दर्शनतो भयं भवति । तच्च भयं शस्त्राद्भवति. तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति ?, अस्तीति दर्शयति—'अत्थि' इत्यादि, तत्र द्रव्यशस्त्रं कृपाणादि तत्परेणापि परमस्ति-तीक्ष्णादपि तीक्ष्णतरमस्ति, लोहक संस्कारविशेषात् , यदिवा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकायुन्पद्यते ततोऽप्यपर मिति, तद्यथा-कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽत्तिः तस्या ज्वरः ततोऽपि मुखशोषमूर्छादय इति, भावशस्त्रपारम्पर्य त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य |
॥३४३॥