________________
स्तस्माद्भोगलिप्सुतया तं द्वितीयं मृषावादमसंयम वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति-'निस्सारं' इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावानिःसारस्तं दृष्ट्वा 'ज्ञानी' तत्ववेदी न विषयाभिलाषं विदध्यात् । न केवल मनुष्याणां, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति-'उववायं चषणं णचा' उपपातं-जन्म च्यवनं-पातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सर्वाणि च स्थानान्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह-'अणण्ण'मित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्यः-ज्ञानादिकस्तं चर 'माहण' इति मुनिः। किं च-'से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात्-न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थव्रतसिद्धये विदमुपदिश्यते'निविद' इत्यादि, निर्विन्दस्व-जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं, किम्भूतः सन् ? 'प्रजासु' स्त्रीषु अरक्तोरागरहितो, भावयेच्च यथैते विषयाः किंम्पाकफलोपमात्रपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो
भवेदिति, उत्तमधर्मपालनार्थमाह-'अणोम' इत्यादि, अवम-हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्ट8 शीलमस्येत्यनवमदर्शी सम्यग्दर्शनज्ञानचारित्रवान् , एवम्भूतः सन् प्रजानुगा नन्दि निर्विन्दस्वेति सण्टङ्कः । यश्चानवमदर्शी |
स किम्भूतो भवतीत्याह-निसन्न' इत्यादि, पापोपादानेभ्यः कर्मभ्यो निषण्णो-निर्विण्णः पापकर्मभ्या पापकर्मसु वा कर्तव्येषु निवृत्त इतियावत् ॥ किं च
कोहाइमाणं हणिया य वीरे. लोभस्स पासे निरयं महंतं । तम्हा य धीरे विरए वहाओ,
३२३॥