SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ॥ ३२१ ॥ करणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद्यशः कीर्त्तिमेव बघ्नतः एकविधं बन्धस्थानमिति ८ तत उद्धर्वं नाम्नो बन्धाभाव इति । गोत्रस्य सामान्येनैकं बन्धस्थानं - उच्चनीचयोरन्यतरत्, यौगपद्येनो भयोर्बन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्म्मणां, तच्च बहु कर्म्म प्रकृतं बद्धं प्रकटं वा, तत्कार्यप्रदर्शनात् खलुशब्दो वाक्यालङ्कारेऽवधारणे वा बह्वव तत्कर्म्म । यदि नामैवं ततस्तदपनयनार्थं किं कर्त्तव्यमित्याह सच्चमि धिरं कुव्वा, एत्थोवरए मेहावी सव्वं पावं कम्मं जोसह ॥ सू० ११२ ।। सद्भ्यो हितः सत्यः- संयमस्तत्र धृतिं कुरुध्वं सत्यो वा मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात्, तत्र भगवदाज्ञायां धृतिं कुमार्गपरित्यागेन कुरुध्वमिति, किं च – 'एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसि वा उपसामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्वदर्शी 'सर्वम्' अशेषं 'पाप' कर्म संसारार्णव परिभ्रमण हेतु झोपयतिशोषयति क्षयं नयतीतियावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भवतीत्याह " अणेगचित्ते खलु अयं पुरिसे से केयणं अरिहर पूरिण्णए, से अण्णवहाए अण्णपरियावाए अणपरिग्गहाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए । सू० ११३ ॥ अनेकानि चित्तानि कृषिवाणिज्यावल गनादीनि यस्यासावनेकचित्तः, खलुखधारणे, संसारसुखाभिलाप्यनेकचित्त एव भवति, 'अयं पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च ।। ३२१ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy