SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ॥३११॥ एसम्मकार एकोनाशीतिः ७ श्रष्टसप्ततिः ८ षट्सप्ततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः-गतयश्चतस्रः ४ पञ्च जातयः ५ पश्च शरीराणि ५ पश्च सङ्घाता: ५ चन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि पट ६ वर्णपश्चक ५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलघूपपातपराघातोच्छ्वासातपोद्योताः पट ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशासि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८६, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोदलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्य पध्नतः तद्गत्यानुपूर्वीद्वयवैक्रियचतुकबन्धकस्य षडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, तो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोद्वलनेऽशीतिः ८०, पुनर्मनुष्यगत्यानुपूर्वीद्वयोद्वलनेऽष्टसप्तति ७८, एतान्यक्षपकाणां सत्कर्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्षपितरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशमिः क्षपित रेकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनकोननवतिः सञ्जाता ततस्त्रयोदशनाम्नि क्षपिते षट्सप्ततिर्भवति, तीर्यकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्षयमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्मतास्थानं, ताश्च वेद्यमाना नवेमाः,
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy