SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ हेतो, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च संयमतपःखेदज्ञस्यास्रवनिरोधादनादिभवोपात्तकर्मक्षयः । कर्मक्षयाच्च यद्भवति तदप्यतिदिशति-'अकम्मरस' इत्यादि, न विद्यते अस्याष्टप्रकार कम्मेत्यका ( काष्टप्रकारमस्येत्यकर्मा) तस्य 'व्यवहारो न विद्यते' नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग भवति । यश्च सकर्मा स नारकादिव्यपदेशेन व्यपदिश्यत इत्याह-'कम्मुणा' इत्यादि, उपाधीयते-व्यपदिश्यते येनेत्युपाधिः-विशेषणं स उपाधिः कर्मणा ज्ञानावरणीयादिना जायते, तद्यथा-मतिश्रतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनी अचक्षुर्दशनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्यादृष्टिः सम्यग्मिध्यादृष्टिः स्त्री पुमानपुंसकः कषायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैगोत्रो नीचेोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीयः, इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्तव्यमित्याह-'कम्मं च' इत्यादि, कर्म-ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य बन्धं वा प्रकृतिस्थित्यनुभावप्रदेशात्मकं पर्यालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकम्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथाअष्टविधसत्कर्मापूर्वादिकरणक्षपकश्रेणिक्रमेण मोहनीयक्षयं विधायान्तमुहर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा, ततः शेषघातित्रये क्षीणे चतुर्विधभवोपग्राहिसत्कर्मा जघन्यतोऽन्तमुहूर्तमुत्कृष्टतो देशोना पूर्वकोटिं यावत् , पुनरूर्व पञ्चह्रस्वाक्षरोदिगरणकालीयां शैलेश्यवस्थामनुभूयाकर्मा भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्मताविधानमुच्यते-तत्र ज्ञाना ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३० ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy