SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सारक्खमाणे इत्यादि, अत्र च ददगुणैराचार्यगुणोत्कीर्तनम् , आचार्याश्च पञ्चनमस्कारान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम् , अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् 'अभिनिव्वुडे अमाई आवकहाए भगवं समियासी' अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेद्यऽविप्रतिपत्त्या ध्यानकारित्वान्मङ्गलमिति, एतच्च शिष्य प्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादनेनै वाध्ययनानामपि मङ्गलवमुक्तमेवेति न प्रतन्यते, पर्वमेव वा शास्त्रं मङ्गलं, ज्ञानरूपत्वात् , ज्ञानस्य च निर्जरार्थत्वात् , निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम्-"जं अन्नाणि कम्मं खवेइ बहुयाहिं वासकोडोहिं। तं नाणी तिहिं गुत्तो खवेइ उस्सासमित्तणं ॥१॥" मङ्गलशब्दनिरुक्तं च मां गालयत्यपनयति भवादिति मङ्गलं, मा भृद्गलो विघ्नो गालो वा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारादिकमन्यतोऽवसेयमिति । साम्प्रतमाचारानुयोगः प्रारभ्यते-आचारस्यानुयोगार्थकथनमाचारानुयोगः सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोळ लघीयसः सूत्रस्य महताऽर्थेन योगाऽनुयोगः, स चामीभिरिरनुगन्तव्यः, तद्यथा-निक्खेवेगहनिरुत्ति-विहिपवित्तीय केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो ॥१॥ तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण-संटिकादिना -प्रतिशिस्येति प्र.१ यदलानी कर्म क्षपयति बहुकाभिवर्षकोटिभिः । तज्ज्ञानी विभिगुप्तः क्षपयत्युच्छ,वासमात्रेण ॥१॥ ध्ययनात्पश्चावेगहनिकासप्तधा, नाम ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy