________________
अध्ययन
श्रीआचाराङ्गवृत्तिः (शीलाका.)
॥२॥
हेयोपादेय-पदार्थपरिज्ञाने यत्नो विधेयः, सच न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताऽशेषातिशय-कलापाप्तोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात, स चार्हन एव, अतः प्रारभ्यतेऽहद्वचनानुयोगः, स च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तगध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्याढिकश्च, चरणकरणानुयोगश्चाचाराङ्गादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात् , तदुक्तम्-'चरणपडिवत्तिहे जेणियरे तिणि अणुओग"""त्ति तथा "चरणपडिवत्तिहेउ धमकहाकालदिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥२॥" गणधरैरप्यत एव तस्यैवादी प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः , तदुक्तम्-"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥१॥" तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिवेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुयं मे आउसंतेणं भगवया एवमक्खाय'मित्यादि, अत्र च भगवत्कथितकथनं भगवद्वचनानुवादो मङ्गलम्; अथवा श्रुतमिति श्रुतज्ञानं, तच्च नन्वन्तःपातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपशमोद्देशकसूत्रं 'से जहा केवि हरए पडिपुण्णे चिट्ठइ समंसि भोम्मे उवसन्तरए
१चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः। घरणप्रतिपत्तिहेतवो धर्मकथाकालदीक्षादिकाः। द्रव्ये दशनशद्धिद शनशुद्धस्य चरणं तु ॥१॥