________________
N
श्रीआचाराङ्गवृत्तिः (शीलावा.)
सम्बन्धश्च 'सुयं मे आउसंतेण' मित्यादि, किं तत् श्रतं?, यत्त्रागुपदिष्टं, तथेतच्चपहू एजस्स (य एगस्स) दुगुछणाए ॥ सू० ५५॥
अध्ययनं. । 'दुगु'छण'त्ति जुगुप्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति १, 'एज कम्पने' एजतीत्येजो | उ शकः ७ वायुः कम्पनशीलत्वात् तस्यैजम्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत तस्या-तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत् , पाठान्तरं वा 'पहू य एगस्स दुगुछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इत्येको-वायुस्तस्यैकस्य एकगुणोपलशितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुभवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः॥ योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति
आयकदंसी अहियंति णञ्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइ
से अज्झत्थं जाणइ, एयं तुलमन्नेसिं ।। सू०५६ ॥ 'तकि कृच्छजीवन' इत्यातङ्कनामातङ्कः-कृच्छजीवनं-दुःखं, तच्च द्विविधं-शारीरं मानसं च, तत्राद्यं कण्टकक्षारशस्त्रगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्रयदौर्मनस्यादिकृतम् , एतदुभयमातङ्कः, एनमातङ्क पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चेतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मानिवर्तते प्रभुर्भवतीति । यदिवाऽऽतको वैधा-द्रव्यभावभेदात् , तत्र
॥ १४८॥ द्रव्यातङ्क इदमुदाहरणम्-जंबुद्दीवे दीवे भरहे वासंमि अत्थि सुपसिद्धं । बहुणयरगुणसमिद्धं रायगिहं णाम जयरंति