________________
।। ११५ ॥
तथाहि-न हतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथा च प्रयोगः-जीवशरीराणि वृक्षाः, अक्ष्याधुपलब्धिभावात् , पाण्यादिसङ्घातवत् , तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात् , पाण्यादिसङ्घातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात् , सुप्तादिपुरुषवत् , तथा चोक्तम्-'वृक्षादयोऽक्षाद्यपलब्धिभावात्पाण्यादिसङ्घातवदेव देहाः। तद्वत्सजीवा अपि देहताया:, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥१॥" 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमेव ॥ साम्प्रतं साधारण लक्षणमभिषित्सुराह
साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥ १३६ ॥ समानम्-एक धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अनन्तकायानां जीवानां 'साधारणं' सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम् , एतदुक्तं भवतिएकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छ्वसिते निःश्वसिते वा सर्वेऽप्युकछवसिता निःश्वसिता वेति ॥ अमुमेवार्थ स्पष्टयितुमाह__ एगस्स ड जं गहणं बहूण साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ॥१३७॥
एको यदुच्छ्वासनिःश्वासयोग्यपुद्गलोपादानं विधते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमका रेकस्यापि तदेवेति ॥ अथ ये बीजात्प्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह