SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अगणिकम्मसमारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ ३॥ सू ३६॥ अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतःप्रदश्यते-'लजमानाः' स्वागमोक्तानुष्ठानं कुर्वाणाः सावधानुष्ठानेन वा लज्जा कुर्वाणाः पृथग' विभिनाः शाक्यादयः ‘पश्येति संयमानुष्ठाने स्थिरीकरणाथ शिष्यस्य चोदना, अनगाग वयमित्येके । प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त. इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः समन्याननेकरूपान् प्राणिनो विहिनस्ति १, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफागुजीवितस्य परिवन्दनमाननपूजनाथ जातिमरणमोचनार्थ दुःखप्रतिघातहेतु यत्करोति तदर्शयति-'स' परिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति २, 'स' इति यस्यैतदसदाचरणं प्रदर्शितं, स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान 'आदानीय ग्राह्य सम्यग्दर्शनादि 'सम्यगुत्थाय' अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम् ?, तदर्शयति–'एष' अग्निसमारम्भः ग्रन्थः-कर्महेतुत्वाद् एष एव मोह एष एव मार एष एव नरकस्तद्धेतुत्वादिति भावः, इत्येवमर्थ च गृद्धो लोको यत्करोति तद्दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्र समारभते तच्चारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति ३ ॥ कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान प्राणिनो B॥१०७ । विहिंसन्तीति दर्शयितुमाह--
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy