________________
2 'महया जणसद्देइ वाति महान् जनशब्दः- परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः अथवा सद्देइ वत्ति-इह हा संधिप्रयोगादितिशब्दो द्रष्टव्यः स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः, जनबोलः-अव्यक्तवर्णो ध्वनिः कलकलः-स बार
5 एवोपलभ्यमानवचनविभागःउर्मि-संबाधः एवमुत्कलिका-लघुतरः समुदाय एवं सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं तत्र,बहुजनोऽन्योऽन्यस्याख्याति ॥५५॥
सामान्येन प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाह-भाषते प्ररूपयति चेति, अथवा आख्याति सामान्यत: प्रज्ञापयति विशेषतो बोधयति वा भाषते' MS व्यक्तपर्यायवचनतः प्ररूपयति उपपत्तितः 'इह आगए ति राजगृहे 'इह संपत्ते'त्ति गुणशिलके, इह समोसढे'त्ति साधूचितावग्रहे । एतदेवाह- 'इहेव रायगिहे'
इत्यादि 'अहापडिरूवं'ति यथाप्रतिरूपमुचितं इत्यर्थः, 'त'मिति तस्मात् 'महाफलं'ति महत्फलं अर्थों भवतीति गम्यं, 'तहारूवाणं'ति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः, 'नामगोयस्स'त्ति नाम्नो- यादृच्छिकस्याभिधानकस्य गोत्रस्य-गुणनिष्पन्नस्य 'सवणयाए'त्ति श्रवणेन 'किमङ्ग पुण' त्ति किमङ्ग पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अङ्गेत्यामन्त्रणे अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनं-अभिमुखगमनं वंदनं-स्तुतिः नमस्यन-प्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतद्भावस्तत्ता तया, तथा एकस्याप्यार्यस्य आर्यप्रणेतृकत्वात् धार्मिकस्य-धर्मप्रतिबद्धत्वात् वंदामोत्ति स्तुमो नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुर्मों वस्त्राद्यर्चनं वा सन्मानयामः-उचितप्रतिपत्तिभिः कल्याणं-कलयाणहेतुं मङ्गलं- दुरितोपशमहेतुं दैवतं-दैवं चैत्यमिव चैत्यं पर्युपासयामः-सेवामहे, एतत् णो-अस्माकं प्रेत्यभवेजन्मान्तरे हिताय पथ्यान्नवत् सुखाय-शर्मणे क्षमाय-संगतत्वाय निःश्रेयसाय- मोक्षाय
आनुगामिकत्वाय-भवपरपम्परासुखानुबन्धिसुखाय भविष्यतीतिकृत्वा-इतिहेतोर्बहव उग्रा-आदिदेवावस्थापितारक्षवंशजाः उग्रपुत्राः-त एव कुमाराद्यवस्था एवं र भोगाः-आदिदेवेनैवावस्थापितगुरुवंशजाताः राजन्या-भगवद्वयस्यवंशजाः क्षत्रिया-सामान्यराजकुलीनाः भटाः-शौर्यवंतो योधा-तेभ्यो विशिष्टतरा मल्लकिनो
लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकरजास्याष्टादश गणराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छइत्ति क्वचिद्वणिजो व्याख्याताः लिप्सव इति संस्कारेणेति, राजेश्वरादयः प्राग्वद्, 'अप्पेगइय'त्ति अप्येके केचन 'वंदणवत्तिय'ति वंदनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे च कृता-धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारार्द्धहारत्रिसरकाणि प्रालम्बश्च-प्रलम्बमानः कटिसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चंदनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा, पुरिसवग्गुरत्ति-पुरुषाणां वागुरेव वागुरा- परिकरं च महया-महता उत्कृष्टिश्च-आनंदमहाध्वनिः गम्भीरध्वनिः सिंहनादश्व बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च- व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः 'एगदिसिं' ति एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा-एकं भगवतं अभि पडू
॥५५॥