________________
ज्ञाताधर्म
कथाङ्गम्
॥१५२ ।।
मिथ्यात्वानन्तानुबन्धिप्रत्ययत्वात्, 'आसेवियबहुलीकएहिं'ति आसेवितानि सकृत्करणात् बहुलीकृतानि बहुशः सेवनात् यानि तै; 'अरहंतगाहा' अर्हदादीनि सप्त पदानि, तत्र प्रवचनं श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ गुरवो धर्मोपदेशका: स्थविरा:- जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविरः समवायधरः • पर्यायस्थविरो विंशतिवर्षपर्याय: बहुश्रुताः परस्परापेक्षया तपस्विनः अनशनादिविचित्रतपोयुक्ताः सामान्य-साधवो वा, इह च सप्तमी षष्ठ्यर्थे द्रष्टव्या, ततोऽर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनां वत्सलतया-वात्सल्येनानुरागयथावस्थितगुणोत्कीर्त्तनानुरूपोपचारलक्षणया तीर्थकरनामकर्म्म बद्धवानिति सम्बन्धः 'तेसिं'ति ये एते जगद्वन्दनीया अर्हदादयस्तेषां, अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति तद् बध्यते इत्यष्टौ, 'दंसण' गाहा, दर्शनं सम्यक्त्वं ९, विनयो ज्ञानादिविषय, तयोर्निरतिचारः संस्तीर्थकरत्वं बद्धवान् १०, आवश्यकं अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति ११ तथा शीलानि - उत्तरगुणा व्रतानि च मूलगुणास्तेषु पुनर्निरतिचार इति १२, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च निर्वर्त्तितवान् १३ तथा . तपस्त्यागयोः सतो निर्वर्त्तितवान्, तत्र तपसा चतुर्थादिना १४ त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्त्ये सति दशविधे निर्वर्त्तितवान् १६ समाधौ च गुर्वादीनां आर्यकरणद्वारेण चित्तस्वास्थ्योत्पादने सति निर्वर्त्तितवान् १७, द्वितीयगाथायां नव, 'अप्पुव्वगाहा' अपूर्वज्ञानग्रहणे सति निर्वर्त्तितवान् १८ श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निर्वर्त्तितवान् श्रुतबहुमानेन १९ यथाशक्ति मार्गदशनादिकयां च प्रवचनप्रभावनयेति भावः २०, तीर्थकरत्वकारणतायामुक्ताया हेतुविंशते: सर्वजीवसाधारणतां दर्शयन्नाह - एतैः कारणैस्तीर्थकरत्वं अन्योऽपि लभते जीव इति, पाठान्तरे तु 'एसो 'त्ति एष महाबलो लब्धवानिति, 'जाव एगरायं'ति इह यावत्करणात् 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमासियं पढमसत्तराइंदियं बीयसत्तराइंदियं तच्चसत्तराइंदियं अहोराइंदियंति द्रष्टव्यमिति, 'सीहनिक्कीलियंति सिंहनिष्क्रीडितमिव सिंहनिष्क्रीडितं, सिंहो हि विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवर्त्योत्तरोत्तरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितं तच्च द्विविधं महत् क्षुद्रकं चेति, तत्र क्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितमपर्यन्तं प्रतिलोमगतौ तु विंशतितमादिकं चतुर्थान्तं, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि तु एकैकवृद्ध्यैकोपवासादीनि, स्थापना चेयं
१ २ १ ३ २४३५४६५७६८७९
१ २ १ ३ २ ४ ३ ५४६५७६८७९
सू. ६२
।।१५२ ।।