________________
॥३॥
बालकमेकं दृष्ट्वा समीपस्थां तन्मातरमूचुः । भद्रे ! काऽसि त्वम् ? । तयोक्तम्, अहं राजपत्नी कन्यकुब्जीयश्रीभूयडराजभयेन चापोत्कटकुलकमलबन्धोरस्य पुत्रस्य गोपनार्थमत्र स्थिताऽस्मि । ततः श्रीसूरिभिरपरालेऽपि तदृक्षच्छायामनमितामालोक्य कोऽप्ययं महानरेश्वरो भावीति. तत्स्वरूपं श्राद्धानामावेद्य प्रच्छन्नमानाय्य तस्य रक्षा कारिता । स च बालकः श्रीगुरुदत्तवनराजनामाऽष्टवार्षिको राजचि ह्रः क्रीडन्नपरबालकास ह्यतेजाः समभूत् । यतः--
पोऊण पाणियं सर-वरंमि पिट्टि न दिति सिहिडिभा । होही जाण कलावो, पयइ चिअ साहए ताण ॥१॥
ततः श्राद्धर्मातुः समर्पितः सन् स चौरमातुलेन सह धाट्यादौ परिभ्रमन्नन्यदा काकरग्रामे धनिगृहे खात्रं दत्वा प्रविष्टो दधिभाण्डे करे पतिते भुक्तोऽहमति सर्वं हित्वा गतः । प्रातस्तत्पुत्र्या श्रीदेव्या गोरसे हस्ताङ्गुलिचिह्नानि घृतभृतानि दृष्ट्वा कोऽप्ययं महापुरुषो भाग्यवानिति तं बान्धवत्वेन प्रतिपद्य तं हवा भोक्ष्यामीति कृतप्रतिज्ञया तत्स्वरूपमाकर्ण्य रात्रौ समागतो वनराजो गुप्तवृत्त्या भोजनवस्त्रादिना सत्कृतो मम राज्याभिषेककाले त्वयैव भगिन्या तिलकः कार्यः, इति प्रतिज्ञाय गतः । अन्यदा वनराजेन क्वापि वने जाम्बाको वणिग् रुद्धः शरपञ्चकमध्यात् शरद्वयं भूमौ मुञ्चन् पृष्टः कारणं प्राह, यूयं त्रयो जनाः शरास्तु पञ्च तेन द्वाभ्यामधिकाभ्यां कि प्रयोजनमिति प्रोक्त कोऽप्ययं सत्त्वशालीश्वरः पुमान् मम राज्यकाले महामात्यो भावीति मुक्तो जाम्बाकः कृतप्रणामः किमपि शम्बलादिकं दत्वा गतः । एकदा गूर्जरत्रापञ्चकुलं षण्मासैरुग्राहितसुराष्ट्रमण्डलं चतुर्विशति २४ लक्षहैमनाणकान् चतुःशत ४०० जात्यतुरङ्गमान् लात्वा । व्याघुटयमानं पथि वनराजेन हत्वा सर्वं जगृहे । ततो वर्ष यावत् कालुंभारवने स्थिति कृत्वा कन्यकुब्जराज्यस्थितिरुत्था