________________
वत्तिमका
||२२५॥
XXXXXXXXXXXXXXXXXXXXXXX
र्षीत् । गृहस्थाचारविचारवाच्यं चतुरध्यायनिबद्ध श्रावकप्रज्ञप्तिग्रन्थं जिनप्रणीतमर्थतो देशविरतास्ते पठन्ति । 'मा हन मा हन' इति परेषां कथयन्ति ते 'माहना' लोके प्रसिद्धिमगुः । कालेन तेषां वृद्धिः । ततः षष्ठे षष्ठे मास्याचारादिपरीक्षां कृत्वाऽयं ज्ञानदर्शनचारित्राचारशुद्ध इति काकिन्या रत्नेन कण्ठे रेखात्रयं कृतम् । ततः कालेन परीक्षापूर्वकं कनकसूत्रत्रयं, क्रमेण रौप्यं जातम् । ततः कालेन नवमदशमजिनयोरन्तरे सकलसाधुव्युच्छेदे सति सर्वेषां लोकानामपरधर्मप्रकाशकाभावादेते गुरवः सञ्जाताः । क्रमेणाब्रह्मचारिणः कण्ठे सूत्रत्रयधारिणश्चाऽभूवन । ततः क्रमेणोत्पन्नकेवले दशमजिने धर्म प्रकाशयति गृहारम्भप्रवृत्तोऽब्रह्मचारी गुरुर्न भवतीत्युक्ते तेषां जिने जिनधर्मे च महान् विद्वेषोऽभूत् । मूढमतीनां लोकानामपि द्वेषमुत्पादयन्ति । ततः कालेन मिथ्यात्वं गताः यदुक्तम्
समवसरणभक्तउग्गह--अंगुलिझयसक्कसावया अहिया । जं आवट्टइ कागिणिलंछण अणुमज्जणा अट्ठ ।। १ ।। .. अस्सावगपडिसेहो, छठे छ? य मासि अणुओगो । कालेण य मिच्छत्तं, जिणंतरे साहुवुच्छेओ ॥ २ ॥
इति द्वेषकारणं ब्राह्मणानां श्रुत्वा राजाऽचिन्तयत्-अहो ! चन्द्रमण्डलादग्निः, सुधाकुण्डाद्विषं प्रादुरभूत् । लोकानामभाग्योदयेन श्रीजिनधर्मान्मिथ्यात्वमभूदिति । एवं श्रीहेमसूरिभिरनेके कुतीथिनः प्रवादा राजसभायां निरुत्तरीकृताः । श्रीसर्वज्ञशासनस्यैकातपत्रं साम्राज्यं कारितं, राजप्रतिबोधश्च कृतः । यदुक्तम्
सन्त्यन्ये कवितावितानरसिकास्ते भूरयः सूरयः, मापस्तु प्रतिबोध्यते यदि परं श्रीहेमसूरेगिरा । उन्मीलन्ति महामहांस्यपि परोलक्षाणि ऋक्षाणि खे, नो राका शशिना विना बत! भवत्युञ्जागरः सागरः ।।१।।
XXXXXXXXXXXXXXXXXXXXXXXXXX
8॥२२५